लेखका:।

 



संस्कृतभारती संस्कृतस्य प्रसाराय कटिबद्धा स्वयंसेविसंस्था। आभारतं तथा भारतात् बहिरपि १७ देशेषु एतत् कार्यं प्रचलति। संस्कृतभारती नैकेषु आयामेषु कार्यं करोति। तेष्वक: आयाम: सुभाषिताभ्यास:। २०२० तमे वर्षे एतस्य आरम्भ: अभवत्।

जनानां मन:सु सुभाषितानां विषये महदाकर्षणं वर्तते यत: एतानि सुभाषितानि  अस्माकं पूर्वसूरिणाम् अनुभवानां सञ्चितम्। अल्पाक्षरै: एतानि महान्तम् अर्थं बोधयन्ति। सुभाषितानां पठनेन वाणी अपि निर्दोषा भवति। अत: सर्वे तेषां पठनाय उत्सुका: सन्ति। 

तेषां कृते एष: सुभाषित-अभ्यासक्रम: शनै: शनै: रच्यमाण: अस्ति। य: कोपि जन: सुभाषितानां पठनं रसास्वादनं कर्तुमिच्छति तस्य कृते स्तरितरीत्या सुभाषितानां चयनं कृत्वा तानि अत्र दत्तानि सन्ति। 

पदच्छेद:, शब्दार्था:,अन्वयबोधका: प्रश्ना:,अन्वय:, मराठ्या समश्लोकी, तथा च मराठीहिन्दीसंस्कृताङ्ग्लासु चतसृषु भाषासु प्रत्येकं सुभाषितस्य अनुवाद: एवं सामग्र्येण विवरणम् अत्र दत्तम्। सुभाषितस्य गायनं कण्ठस्थीकरणं कया पद्धत्या करणीयं तस्य दिग्दर्शनाय सन्थापद्धत्या तस्य ध्वनिमुद्रणमपि अत्र स्थाप्यते। एतेन य: कोपि जन: एतानि सुभाषितानि सुलभरीत्या पठितुं कण्ठस्थीकर्तुं  शक्नुयात्।

पाठशालाच्छात्रा: एतेषां सुभाषितानां कण्ठस्थीकरणं कुर्यु: एतदर्थं तेषां कृते सुभाषित-पठन-स्पर्धा: अपि स्वीक्रियन्ते। तासां संज्ञापनं अग्रिमे पृष्ठे विस्तरेण दद्म:।

सुभाषितानाम् अनुवादस्य कार्यम् इमे संस्कृतसेवका: कुर्वन्त: सन्ति--

१) श्री.अभिजित तोडकर--सुभाषितचयनम् आङ्ग्लार्थ: च।

२) सौ.मुग्धा शेट्ये--संस्कृतार्थ:।

३) सौ.अंजली रिस्बूड--मराठी-अर्थ:।

४) श्री.भूपाल देशमुख--हिन्दी-अर्थ:।

५) श्री.रामचंद्र शिधये--अन्वय:।

६) श्री.विष्णू एरंडे--मराठी-समश्लोकी।

७) सौ. ज्ञानदा कस्तुरे--प्रश्ननिर्मिति:।

८) सौ.भक्ती कापरे--प्रश्ननिर्मिति:।

९) कु.राधिका तथा वेदिका आम्भोरे--सुभाषितगायनम्।

एतेभ्य: सर्वेभ्य: संस्कृतभारतीपक्षत: हार्दा: धन्यवादा: समर्प्यन्ते। 

एतत् अनुवादकार्यम् आवर्षं प्रचलिष्यति। तेन ६००+ सुभाषितानां एक: बृहत्सङ्ग्रह: निर्मित: भवेत् इति अनुमितम्। तथा स्यात् चेत् पुस्तकरूपेणापि तस्य प्रकाशनं विचाराधीनम्।

इति शम्।