गट १--श्लोक क्र २३



कुसुमं वर्णसम्पन्नं 
गन्धहीनं न शोभते । 
न शोभते क्रियाहीनं
मधुरं वचनं तथा ।।२३।।

✓ पदच्छेद-- 
कुसुमम्, वर्णसम्पन्नम्, गन्धहीनम्, न , शोभते, न, शोभते, क्रियाहीनम्, मधुरम्, वचनम्, तथा।

✓ शब्दार्थ-- 
१) कुसुमम् > कुसुम (नपुं)--
= फुल 
= पुष्प/फूल
= Flower

२) वर्णसम्पन्नम् > वर्णसम्पन्न (वि, नपुं, समास:)
• वर्णै: सम्पन्नम् 
= रंगीबेरंगी 
=अनेक रंगों से युक्त
= Colourful

३) गन्धहीनम् > गन्धहीन (वि, नपुं, समास:)
• गन्धेन हीनम्।
= वास नसलेले 
= गंधहीन ( सुवास के बिना )
= Without a fragrance

४) न (अ)--
= नाही
=नही
= Not

५) शोभते > शुभ् (१ आ)--
= शोभून दिसते
=शोभा देता है ।
= appeals as beautiful

६) क्रियाहीनम् > क्रियाहीन (वि, नपुं, समास:)--
• क्रियाभि: हीनम्।
= क्रियेशिवाय 
=क्रियाहीन/अकर्मण्य ( कुछ भी काम न करनेवाला )
= Devoid of action

७) मधुरम् > मधुर (वि)--
= गोड
=मधुर
= Melodious

८) वचनम् > वचन(नपुं)--
= बोलणे 
=बोलना
= Speech

९) तथा (अ)--
= तसेच 
=वैसे ही
= In the same manner

✓ प्रश्न--
१) कीदृशं कुसुमं न शोभते?
२) कीदृशं वचनं न शोभते?

✓ अन्वय--   
वर्णसम्पन्नं कुसुमं गन्धहीनं न शोभते । तथा मधुरं वचनं क्रियाहीनं न शोभते ।

✓ समश्लोकी-- 
रंगाने जरी संपन्न सुमने तरी,
गंधहीन न शोभती |
तैसेची क्रियाहीन मधुर वचने,
मनुजा न शोभती ||

✓ अर्थ--

१) मराठी अर्थ-- 
रंगाने आकर्षक असलेले पण गंधहीन फूल शोभून दिसत नाही. त्याप्रमाणेच कृतीची जोड नसलेले गोड बोलणे शोभून दिसत नाही. 

२) संस्कृतार्थ:--
 चित्ते, वचने क्रियायां च एकरूपता आवश्यका इति एतस्मिन् सुभाषिते सुभाषितकार: कथयति । मनुष्य: यथा वदति तथैव कृति: अपि अपेक्षिता अस्ति । यस्य उक्ति: अन्या, कृति: अन्या स: मानव: सभामध्ये न शोभते । सुभाषितकार: एतस्य स्पष्टीकरणार्थं पुष्पस्य उदाहरणं प्रस्तुतीकरोति । यद् पुष्पं वर्णसम्पन्नम् अस्ति तथापि गन्धहीनम् अस्ति तत्पुष्पात् वर्णसम्पन्नं गन्धयुक्तं पुष्पं अधिकं शोभते । तथैव य: केवलं मधुरं मधुरं वदति तथापि तस्य कृति: तस्य वचनानुसारं यदि न भवति, स: मनुष्य: समाजे उपहासपात्र: भवति । 

३) हिंदी अर्थ–
अनेक रंगों से सम्पन्न होनेपर भी गन्धहीन पुष्प शोभा नही देता , वैसे ही क्रियाहीन ( अकर्मण्य ) व्यक्ती का मधुर बोलना शोभा नही देता है ।

४) English Meaning–
A flower having colours but no fragrance doesn't seem beautiful. Likewise only melodious speech which is not accompanied by appropriate action doesn't shine out.