गट १--श्लोक क्र २०
रूपस्याभरणं गुण:।
गुणस्याभरणं ज्ञानं
ज्ञानस्याभरणं क्षमा।।२०।।
✓ पदच्छेद--
नरस्य, आभरणम्, रूपम्, रूपस्य, आभरणम्,गुण:,गुणस्य , आभरणम्, ज्ञानम्, ज्ञानस्य, आभरणम् , क्षमा।
✓ शब्दार्थ--
१) नरस्य > नर (पुं)--
= मनुष्याचा
= मनुष्य का
= Of man
२) आभरणम् > आभरण (नपुं)--
= अलंकार
=अलंकार/आभूषण/गहना/जेवर
= Ornament
३) रूपम् > रूप (नपुं)
= रुप
=रुप
= Good looks
४) गुण: > गुण (पुं)--
= गुण
=गुण
= Virtue
५) ज्ञानम् > ज्ञान (नपुं)--
= ज्ञान
=ज्ञान
= Knowledge
६) क्षमा (स्त्री)--
= क्षमा
=क्षमा
= Forebearance
✓ प्रश्न--
१) नरस्य आभरणं किम्?
२) गुण: कस्य आभरणम्?
३) गुणस्य आभरणं किम्?
४) क्षमा कस्य आभरणम्?
✓ अन्वय--
नरस्य आभरणम् रूपम् {अस्ति ) | रूपस्य आभरणम् गुण: {अस्ति ) | गुणस्य आभरणम् ज्ञानम् {अस्ति ) | ज्ञानस्य आभरणम् क्षमा {अस्ति ) |
✓ समश्लोकी--
नराचा दागिना रूप।
रूपाचा तैसाचि गुण।
गुणाचा दागिना ज्ञान।
अन् क्षमा ज्ञानभूषण।।
✓ अर्थ--
१) मराठी अर्थ--
रूप हा मनुष्याचा दागिना आहे, गुण हा रूपाचा दागिना आहे, ज्ञान हा गुणाचा दागिना आहे तर क्षमा हा ज्ञानाचा दागिना आहे.
२) संस्कृतार्थ:--
मनुष्यस्य रूपं प्रथमं दृष्टिपथम् आगच्छति । तस्य दर्शनेन एव स: मनुष्यः कीदृशः भवेत् इति कल्पना कर्तुं शक्यते । अत: नरस्य आभरणं रूपं इति सुभाषितकार: कथयति । यदि मनोहरं रूपं भवति तथापि तस्य समीपे यदि गुणाः न सन्ति तत: तेन सुन्दरेण रूपेण किम् ? अत: गुण: एव रूपस्य आभरणम् अस्ति । गुणै: सह ज्ञानमपि आवश्यकम् । ज्ञानेव विना मनुष्य पशु: एव । अत: गुणस्य आभरणं ज्ञानम् । ज्ञानम् अस्ति तथापि क्रोधेन तत् ज्ञानस्य मूल्यं शून्यं भवति । क्षमया सर्वाणि कार्याणि सिध्यन्ति । अत: क्षमा ज्ञानस्य आभरणम् इति सुभाषितकार: वदति ।
३) हिंदी अर्थ--
मनुष्य का आभूषण उसका रुप होता है , रुप ( सौंदर्यवान लोगों का )का आभूषण गुण होता है , गुण (गुणवान लोगों का ) का आभूषण ज्ञान होता है , ज्ञान का ( ज्ञानी जनों का ) आभूषण क्षमा होता है ।
४) English Meaning--
Good looks are the ornament of man, virtue is the ornament of good looks, knowledge is the ornament of virtue and forebearance is the ornament of knowledge.