गट १--श्लोक क्र १४


पुण्यस्य फलमिच्छन्ति
पुण्यं नेच्छन्ति मानवा:।
फलं पापस्य नेच्छन्ति
पापं कुर्वन्ति नित्यश:।।१४।।

✓ पदच्छेद–

पुण्यस्य, फलम्, इच्छन्ति, पुण्यम् , न , इच्छन्ति, मानवा:,फलम्, पापस्य, न, इच्छन्ति, पापम्, कुर्वन्ति, नित्यश:।


✓ शब्दार्थ-- 


१) पुण्यस्य> पुण्य(नपुं)--

= पुण्याचे 

= पुण्य का ( पुण्य कर्म का )

= Of the meritorious deed


२) फलम् > फल(नपुं)--

= फळ 

=फल 

= The fruit


३) इच्छन्ति > इष् -इच्छ् (६प)---

= इच्छितात 

= चाहते है ।

= Want


४) न (अ)--

=नाही 

= नही

= Not


५) मानवा:> मानव (पुं)--

=मनुष्य

= मानव 

= Humans


६) पापस्य >पाप (नपुं)--

= पापाचे 

= पाप का( पाप कर्म का )

= Of the bad deed


७) कुर्वन्ति > कृ (८प)--

= करतात 

=करते है ।

= Do


८) नित्यश:(अ)--

= नेहमी 

= निरन्तर

= Always


✓ प्रश्न--

१) पुण्यस्य फलं के इच्छन्ति?

२) मानवा: किं किं न इच्छन्ति?

३) ते नित्यश: किं कुर्वन्ति?


✓ अन्वय–

मानवा:  पुण्यम्  [कर्तुं] न  इच्छन्ति  [किन्तु]  पुण्यस्य फलम् इच्छन्ति  |

पापस्य फलम् न  इच्छन्ति   [किन्तु]  पापम्  नित्यश:  कुर्वन्ति ।



✓ समश्लोकी-- 

पाहिजे पुण्यफल, परि न घडते पुण्यकर्म |

नको ते पापफल, परि घडतेच पापकर्म ||


✓ अर्थ--


१) मराठी अर्थ-- 

मनुष्य पुण्याच्या फलाची इच्छा करतात पण पुण्य मात्र करत नाहीत. आणि ते पापाच्या फळाची इच्छा करत नाहीत पण पाप मात्र नेहेमी करतात.


२) संस्कृतार्थ:-- 

सर्वे जनां कर्मण: शोभनं फलं प्राप्तुम् इच्छन्ति । अनिष्टं फलं न इच्छन्ति । पुण्यकृत्यस्य एव शोभनं फलं लभते । तथापि मानवा: पुण्यकृत्यं न कुर्वन्ति । ते पापस्य अनिष्टं फलं न इच्छन्ति । अत: पापकृत्यात् निवर्तनम् आवश्यकम् । तथापि ते नित्यं पापकृत्यं कुर्वन्ति । 


३) हिंदी अर्थ–

पुण्य ( कर्मों ) के फल जीव पसन्द करते है पर पुण्य ( कार्य ) करना पसन्द नही करते है । (वैसे ही ) पाप ( कर्मों ) के फल की इच्छा नही करते पर पाप ( कर्म ) निरन्तर करते है ।


४) English Meaning-- 

Humans want the (good) fruits of the good deeds (such as the attainment of the heaven after death) but don't want to do such deeds. They don't want the fruit of evil deeds (such as the attainment of hell after death) but always engage themselves in doing them.