गट १--श्लोक क्र १९



गङ्गा पापं शशी तापं 
दैन्यं कल्पतरुस्तथा । 
पापं तापं च दैन्यं च 
घ्नन्ति सन्तो महायशा:।।१९।। 

✓ पदच्छेद-- 

गङ्गा, पापम्, शशी, तापम्, दैन्यम्, कल्पतरु:, तथा, पापम्, तापम् ,च, दैन्यम् , च, घ्नन्ति, सन्त:, महायशा:।


✓ शब्दार्थ-- 

१) गङ्गा (स्त्री)--

= गंगा नदी 

= गंगा 

= The Ganges


२) पापम् > पाप (नपुं)--

= पाप 

=पाप

= Sin


३) शशी > शशिन् (पुं)--

= चंद्र 

=चंद्रमा / चाँद

= The moon


४) तापम् > ताप (नपुं)--

= ताप 

=ताप

= Anguish/mental pain


५) दैन्यम् > दैन्य (नपुं)--

= दारिद्रय 

=दैन्य (दीनता )

= Poverty


६) तथा (अ) -

= तसेच 

=वैसे

= In the same manner/also


७) कल्पतरु:> कल्पतरु (पुं)--

= कल्पतरू वृक्ष 

=कल्पतरु ( मनोनुकूल द्रव्य देनेवाला वृक्ष )

= The wish fulfilling heavenly tree


८) घ्नन्ति> हन् (२प)--

= नष्ट करतात 

=नष्ट करता है ।

= Destroy


९) सन्त:> सत् (पुं)---

= संत किंवा सज्जन 

= संत 

= The good/righteous people


१०) महायशा:> महायशस् (पु)--

= यशस्वी लोक

= सज्जन या महानुभाव

= Of great fame


✓ प्रश्न--

१) गङ्गा किं हरति? 

२) तापं कः हरति?

३) कल्पतरु: किं नष्टं करोति? 

४) सन्तः किं किं घ्नन्ति? 


✓ अन्वय--     

गङ्गा पापम् ( हन्ति ) |  शशी  तापम् ( हन्ति ) |  कल्पतरु:  दैन्यम्  ( हन्ति ) | तथा महायशा: सन्त: च  पापम्, तापम् दैन्यम्  च घ्नन्ति |


✓ समश्लोकी-- 

गंगा पापास शशि तापास

दैन्यास कल्पतरु तैसे 

पाप ताप अन् दैन्यास

संत महाशयी नष्ट करितसे ।।


✓ अर्थ--


१) मराठी अर्थ-- 

गंगा पाप नाहीसे करते, चंद्र ताप नाहीसा करतो व कल्पवृक्ष दैन्य नाहीसे करतो. परंतु थोर अंत:करणाचे सज्जन लोक पाप, ताप व दैन्य नाहीसे करतात.


२) संस्कृतार्थ:-- 

अस्मिन् सुभाषिते सज्जनसङ्गस्य महत्वं विशदीकृतम । गङ्गास्नानेन पापं नश्यति इति गङ्गाया: प्रसिद्धि: अस्ति । तथा शशी नाम चन्द्र: तापं नाशयति । यत: तस्य किरणा: शीतला: । कल्पतरु: वाञ्छितं वस्तु याचकेभ्य: ददाति इति तस्य ख्याति: । अत: स: याचकस्य दैन्यम् नाशयति । अपि तु एका सज्जनसङ्गति: पापम् अपि नाशयति, तापम् अपि नाशयति तथा दैन्यम् नाम दारिद्यमपि नाशयति । महायशा: नाम सज्जना: । 


३) हिंदी अर्थ–

गंगा पाप नष्ट करती है , चंद्रमा ताप नष्ट करता है और कल्पवृक्ष दैन्य ( दीनता ) नष्ट करता है किंतु संत , सज्जन  ( महानुभाव ) पाप , ताप और दैन्य (तीनों को ) नष्ट करते है ।


४) English Meaning-- 

The Ganges destroys sin, the moon annihilates  mental suffering, and the wish fulfilling tree destroys poverty. But the righteous people of great fame destroy all the three --sin, mental suffering and poverty.