गट १--श्लोक क्र ९
अहिंसा परमो धर्म:
तथाऽहिंसा परो दमः ।
अहिंसा परमं दानं
अहिंसा परमं तपः।। ९।।
तथाऽहिंसा परो दमः ।
अहिंसा परमं दानं
अहिंसा परमं तपः।। ९।।
✓ पदच्छेद--
अहिंसा, परम: धर्म:, तथा, अहिंसा पर:, दम:,अहिंसा, परमम् , दानम् , अहिंसा, परमम् , तप:।
✓ शब्दार्थ--
१) अहिंसा (स्त्री)--
= अहिंसा
= अहिंसा
= Non-violence
२) परम: > परम (वि)--
=परम (सर्वोच्च , उत्कृष्ट )
= श्रेष्ठ
= Excellent
३) धर्म: > धर्म (पुं)--
= धर्म
= धर्म
= Duty
४) तथा (अ)--
= वैसे ही
= तसेच
= Additionally/ in the same manner
५) पर: > पर (वि)
=पर / परम
= श्रेष्ठ
= Excellent
६) दम: > दम (पुं)--
=दम/आत्मसंयम
= संयम
= Control of the external senses.
७) दानम् > दान (नपुं)--
=दान
= दान
= Charity
८) तप: > तपस् (नपुं)--
= तप
= तप
= Prnance, austerity
✓ प्रश्न--
१) क: परम: धर्म:?
२) क: पर: दम:?
३) अहिंसा कीदृशं दानम्?
४) किं परमं तप:?
✓ अन्वय--
अहिंसा परम: धर्म: (अस्ति)। तथा अहिंसा पर: दम: (अस्ति)। अहिंसा परमं दानं (विद्यते)। अहिंसा (एव) परमं तप: (भवति)।
✓ समश्लोकी--
अहिंसा श्रेष्ठ धर्म तैसा,
आत्मसंयम श्रेष्ठ अहिंसा |
अहिंसा उत्कृष्ट दान अन्,
सर्वोच्च तपही अहिंसा ||
✓ अर्थ--
१) मराठी अर्थ--
अहिंसा हाच श्रेष्ठ धर्म आहे, तसेच अहिंसा हा इंद्रियसंयम आहे. अहिंसा हे श्रेष्ठ दान आहे व अहिंसा हे श्रेष्ठ तप आहे.
२) संस्कृतार्थ:--
अस्मिन् सुभाषिते अहिंसाया: महत्वं प्रतिपादितम् । अहिंसा श्रेष्ठ: धर्म: । धर्म: नाम न्याय्य: मार्ग: । अहिंसां आचरितुं इन्द्रियाणां दमनं आवश्यकम् अस्ति । अत: सुभाषितकार: अहिंसा एव दम: इति कथयति । अहिंसा नाम जीवनदानम् । जीवनदानात् विना न किमपि श्रेष्ठं दानम् । तथा अहिंसाव्रतस्य आचरणम् एव श्रेष्ठं तप: अस्ति ।
३) हिंदी अर्थ--
अहिंसा परम धर्म है वैसे ही अहिंसा परम आत्मसंयम है , अहिंसा परम दान है और अहिंसा परम तप है । ( परम=सर्वोच्च , उत्कृष्ट )
४) English Meaning--
Non-violence is excellent duty, it is the highest sense-control, it is the greatest charity and it is the highest penance.