गट १--श्लोक क्र ८


नक्षत्रभूषणं चन्द्रो 
नारीणां भूषणं पतिः। 
पृथिवीभूषणं राजा 
विद्या सर्वस्य भूषणम्।।८।।

✓ पदच्छेद-- 

नक्षत्रभूषणम्, चन्द्र:, नारीणाम् , भूषणम् , पति:, पृथिवीभूषणम् ,राजा, विद्या, सर्वस्य , भूषणम्।


✓ शब्दार्थ-- 

१) नक्षत्रभूषणम् > नक्षत्रभूषण (नपुं,समास:)

• नक्षत्राणां भूषणम्।

=नक्षत्रांचे आभूषण 

= नक्षत्रों का आभूषण

= Ornament of the constellations


२) चन्द्र: > चन्द्र (पुं)--

=चंद्रमा

= चंद्र 

= The moon


३) नारीणाम् > नारी (स्त्री)--

= स्त्रियांचे

= नारियों का

= Of women


४) भूषणम् > भूषण (नपुं)--

=भूषण/आभूषण

= आभूषण 

= Ornament


५) पति: > पति (पुं)--

= पती

= पति

= The husband


६) पृथिवीभूषणम् > पृथिवीभूषण (नपुं, समास:)--

• पृथिव्या: भूषणम् ।

= पृथ्वीचे भूषण

= पृथ्वी का भूषण 

= The ornament of the earth


७) राजा > राजन् (पुं)--

= राजा

= राजा

= The king


७)  विद्या (स्त्री)--

= विद्या

= विद्या 

= Knowledge


८) सर्वस्य > सर्व (पुं)--

= सर्वांचे 

= सब का 

= Of all


✓ प्रश्न--

१) चन्द्र: केषां भूषणम्?

२) नारीणां भूषणं किम् ?

३) पृथिव्या: किं भूषणम् ?

४) सर्वस्य भूषणं किम् ?


✓ अन्वय--

चन्द्र: नक्षत्रभूषणम् (अस्ति)। पति: नारीणां भूषणम् (अस्ति)। राजा पृथिवीभूषणम् (अस्ति)। विद्या सर्वस्य भूषणं (भवति)।


✓ समश्लोकी-- 

नक्षत्रांचे भूषण चंद्र, 

पति भूषण नारींचे |

पृथ्वीचे भूषण राजा, 

विद्या भूषण सर्वांचे ||


✓ अर्थ–


१) मराठी अर्थ-- 

सर्व नक्षत्रांचे भूषण चंद्र आहे, स्त्रियांचे भूषण पती आहे, पृथ्वीचे भूषण राजा आहे तर विद्या हे सर्वांचेच भूषण आहे.


२) संस्कृतार्थ:--

 सर्वेषु नक्षत्रेषु चन्द्र: मुख्य, तथा अपरिमितेन ओजसा राजते अत: स: नक्षत्राणां भूषणम् इति कवि: मन्यते । स्त्रीणां भूषण पति: एव अस्ति । नृप: पृथिव्या: भूषणम् अस्ति । तथापि विद्या सर्वेषां भूषणम् अस्ति । अत: विद्या एव सर्वेषु भूषणेषु श्रेष्ठा वर्तते ।


३) हिंदी अर्थ–

नक्षत्रों का भूषण चंद्रमा है , नारियों का आभूषण पति है , पृथ्वी का आभूषण राजा है और विद्या सब का भूषण है ।


४) English Meaning-- 

The moon is the ornament of the constellations, the husband is the ornament of women, the king is the ornament of the earth, whereas knowledge is the ornament of all.