गट १-- श्लोक क्र १०


आरोग्यं परमो लाभः 
सन्तोषः परमं धनम्।
विश्वासः परमं मित्रं 
राष्ट्रसेवा परं सुखम् ।।१०।।

✓ पदच्छेद-- 

आरोग्यम् , परम: , लाभ:, सन्तोष:, परमम् , धनम्, विश्वास:, परमम्, मित्रम् ,राष्ट्रसेवा, परम्, सुखम्।

✓ शब्दार्थ-- 
१) आरोग्यम् > आरोग्य (नपुं)--
= आरोग्य
= आरोग्य 
= Health

२) परम: , परमम् > परम (वि.,पुं,नपुं)
=परम ( सर्वोच्च , सर्वोत्कृष्ट )
= श्रेष्ठ 
= The greatest

३) लाभ: > लाभ (पुं)--
= लाभ 
= लाभ 
= Benefit

४) सन्तोष:> सन्तोष (पुं)--
=सन्तोष ( सन्तुष्टि )
= समाधान 
= Contentment

४) धनम् > धन (नपुं)--
= धन (सम्पत्ती/सम्पदा )
= धन 
= Wealth

५) विश्वास:> विश्वास (पुं)--
=विश्वास
= विश्वास 
= Faith

६) मित्रम् > मित्र (नपुं)--
=मित्र
= मित्र 
= Friend

७) राष्ट्रसेवा (स्त्री)--
=राष्ट्रसेवा
= राष्ट्रसेवा 
= Service to the nation

७) सुखम् > सुख(नपुं)--
=सुख
= सुख 
= Happiness

✓ प्रश्न--
१) क: परम: लाभ:?
२) किं परमं धनम् ?
३) किं परमं मित्रम्?
४) किं परमं सुखम् ?

✓ अन्वय-- 
आरोग्यं परम: लाभ: (अस्ति)। सन्तोष: परमं धनम् (अस्ति)। विश्वास: परमं मित्रं (विद्यते)। राष्ट्रसेवा परं सुखम् (अस्ति)।

✓ समश्लोकी-- 
आरोग्य परम लाभ, संतोष परम संपदा ।
विश्वास परम मित्र, राष्ट्रसेवा परम सुखदा ||

✓ अर्थ--

१) मराठी अर्थ-- 
आरोग्य हा श्रेष्ठ लाभ आहे, संतोष हे श्रेष्ठ धन आहे. विश्वास हा श्रेष्ठ मित्र आहे व देशाची सेवा हे श्रेष्ठ सुख आहे. 

२) संस्कृतार्थ:-- 
शरीरस्य आरोग्यमेव प्रधानम् । यत: निरोग: मनुष्य: कार्यं कर्तुं प्रभवति । मानव: सुखं प्राप्तुं धनं प्राप्नोति । तथापि सुखं लभते वा न वा । सन्तोषेन सुखं ध्रुवं लभते । अत: सर्वेषु धनेषु श्रेष्ठं धनं सन्तोष एव । विश्वास: मित्रवत् तिष्ठति । अत: कवि: आरोग्यं मित्रं वदति । देशस्य सेवा एव श्रेष्ठं सुखं इति कवि: वदति । यत: देशसेवया देश: समृद्धिं प्रति गच्छति । तेन मानव: अपि सुखी भवति ।

३) हिंदी अर्थ-- 
आरोग्य परम लाभकर है , सन्तोष सर्वोत्कृष्ट धन है , विश्वास परम मित्र है और राष्ट्रसेवा ही सर्वोच्च सुख है ।

 ४) English Meaning-- 
Health is the greatest benefit, contentment is the greatest wealth, faith is the greatest friend and service to the nation is the greatest happiness.