गट १--श्लोक क्र ७



पक्षिणां बलमाकाशं 
बालानां रोदनं बलम्।
दुर्बलस्य बलं राजा 
मत्स्यानामुदकं बलम् ।।७।।

✓ पदच्छेद-- 
पक्षिणाम्, बलम्, आकाशम्, बालानाम्, रोदनम्, बलम्, दुर्बलस्य, बलम्, राजा, मत्स्यानाम्, उदकम्, बलम्।

✓ शब्दार्थ-- 
१) पक्षिणाम् > पक्षिन् (पुं)--
= पक्ष्यांची 
= पंछीयों का
= Of the birds

२) बलम् > बल (नपुं)--
= शक्ति 
= बल
= Strength

३) आकाशम् > आकाश (नपुं)--
= आकाश
= आकाश
= The sky

४) बालानाम् > बाल (पुं)-- 
= बालकांची 
= बच्चों का 
= Of the children

५) रोदनम् > रोदन (नपुं)-- 
= रडणे 
= रोना 
= Crying

६) दुर्बलस्य> दुर्बल (वि. पुं)--
= दुबळ्यांची 
= दुर्बलों का
= Of the weak

७) राजा > राजन् (पुं)--
= राजा
= राजा 
= The king

८) मत्स्यानाम् > मत्स्य (पुं)-- 
= माश्यांची 
= मछलियों का 
= Of the fish

९) उदकम् > उदक (नपुं)-- 
= पाणी 
= पानी 
= Water

✓ प्रश्न--
१) पक्षिणां किं बलम्?
२) रोदनं केषां बलम्?
३) राजा कस्य बलम्?
४) मत्स्यानां बलं किम्?

✓ अन्वय-- 
पक्षिणां बलम् आकाशम् (अस्ति)। बालानां बलं रोदनम् (अस्ति)। राजा दुर्बलस्य बलं (भवति)। उदकं मत्स्यानां बलं (भवति)। 

✓ समश्लोकी-- 
पक्षी शक्तिमान आकाशी, तैसें जलामधे मत्स्य |
नृप दे शक्ती दुर्बलासी, तैसें रडणे बालकास ||

✓ अर्थ--

१) मराठी अर्थ--  
पक्ष्यांचे बळ आकाशात असते. मुलांचे बळ रडण्यात असते. राजा हा दुर्बळांचे बळ आहे तर माशांचे पाणी हे बळ आहे. 

२) संस्कृतार्थ:-- 
खगा: एव आकाशे डयन्ते न इतरे प्राणिन: । अत: तेषां सामर्थ्यं आकाशे दृश्यते । रोदनेन इष्टं वस्तु प्राप्तुं शक्यम् इति बाला: जानन्ति । अत: तेषां रोदनमेव बलम् अस्ति । राजा दुर्बलान् सबलान् कर्तुं प्रभवति । अत: राजा दुर्बलानां बलं अस्ति । मत्स्या: जले एव जीवन्ति न भूम्याम् । अत: जलमेव मत्स्यानां बलम् ।

३) हिंदी अर्थ--
पंछियों का बल आकाश होता है , बालकों का बल रुदन ( रोना ) होता है , दुर्बल का बल राजा और मछली का बल पानी होता है ।

४) English Meaning-- 
The sky is the strength of the birds, crying is the strength of the children, the king is the strength of the weak and water is the strength of the fish.