गट १--श्लोक क्र १६



गते शोको न कर्तव्यो
भविष्यं नैव चिन्तयेत्।
वर्तमानेन कालेन
वर्तयन्ति विचक्षणा: ।।१६।।

✓ पदच्छेद-- 

गते, शोक: , न, कर्तव्य:, भविष्यम्, न ,एव, चिन्तयेत् , वर्तमानेन, कालेन, वर्तयन्ति, विचक्षणा:।


✓ शब्दार्थ-- 

१) गते > गत (वि)--

= गेलेल्या काळाचा 

= बीते हुए कल का

= Past


२) शोक: > शोक(पुं)--

= शोक किंवा दुःख 

= शोक

= Repentence/lamentation


३) न (अ)--

= नाही

= नही

= Not


४) कर्तव्य:> कर्तव्य (वि)--

= केला पाहिजे

= करना है / करना चाहिये ।

= Should do


५) भविष्यम् > भविष्य (नपुं)--

= भविष्याचा

= भविष्य का 

= Happening in future


६) एव (अ)--

= ही

= च 

= Verily


७) चिन्तयेत् > चिन्त् (१० प)--

= विचार करावा 

= विचार करना चाहिये ।

= Should think


८) वर्तमानेन > वर्तमान (वि)--

= वर्तमान

= वर्तमान 

= The present


९) कालेन > काल (पु)--

= काळानुसार 

= काल के अनुसार

=According to time


१०) वर्तयन्ति> वृत् (१०प)--

= वागतात 

=बर्ताव करता है/कार्य करता है ।

= Behave/go by


११) विचक्षणा:> विचक्षण (पुं)--

= बुद्धिमान लोक

= बुद्धिमान लोग

= The intelligent



✓ प्रश्न--

१) कस्मिन् विषये शोक: न कर्तव्य:?

२) भविष्यविषये किं न करणीयम्?

३) विचक्षणा: कथं वर्तयन्ति?


✓ अन्वय–

[ जनेन ] गते शोक:  न कर्तव्य: | [ जन:] भविष्यम् [अपि ] न चिन्तयेत् | [ यतो हि  ] विचक्षणा:  वर्तमानेन  कालेन एव वर्तयन्ति |


✓ समश्लोकी-- 


शोक न करी गतकाळालाचा |

चिंता न करी भविष्याची | 

वर्तमानातच वावरतो |

विचक्षण, बुध्दिवान ||


✓ अर्थ--


१) मराठी अर्थ-- 

गेल्याचा शोक करू नये व भविष्याचा विचार करू नये. पंडित (विचारी) लोक नेहेमी वर्तमान काळाचा विचार करतात.


२) संस्कृतार्थ:--

गतस्य शोक: अनुचित: । यत: शोकेन न गतं वस्तु अधिगन्तुं शक्यते । भविष्यस्य चिन्ता अपि व्यर्था । यत: चिन्तया भविष्यं परिवर्तितुं न शक्यते । अत: ज्ञानीजना: वर्तमाने एव विचरन्ति । ते वर्तमानकाले कथं वर्तितव्यं इति चिन्तयन्ति ।


३) हिंदी अर्थ–

बीते हुए ( समय ) का शोक नहीं करना चाहिए और भविष्य की चिन्ता नहीं करनी चाहिए, बुद्धिमान तो वर्तमान काल जैसाही बर्ताव करते हैं |


४) English Meaning-- 

One should not lament about what is past, nor should one keep thinking about the future. The intelligent people go by only the present time.