गट १-- श्लोक क्र ६
यथा देशस्तथा भाषा
यथा राजा तथा प्रजा।
यथा भूमिस्तथा तोयं
यथा बीजं तथाङ्कुरः।।६।।
✓ पदच्छेद--
यथा, देश:, तथा, भाषा, यथा, राजा, तथा, प्रजा, यथा, भूमि:, तथा, तोयम्, यथा, बीजं, तथा, अङ्कुरः ।
यथा, देश:, तथा, भाषा, यथा, राजा, तथा, प्रजा, यथा, भूमि:, तथा, तोयम्, यथा, बीजं, तथा, अङ्कुरः ।
✓ शब्दार्थ--
१) यथा (अ)--
= जसा
= जैसा
= Just as
२) देश:> देश (पुं)--
= देश
= देश
= the terriotory
३) तथा (अ)--
= तशी
= वैसा
= So also /likewise
४) भाषा (स्त्री)--
= भाषा
= भाषा
= The language
६) राजा > राजन् (पुं)--
= राजा
= राजा
= The king
८) प्रजा (स्त्री)--
= प्रजा
= प्रजा
= The subjects
१०) भूमि: > भूमि (स्त्री)--
= जमीन
= जमीन
= Land
१२) तोयम् > तोय (नपुं)
= पाणी
= पानी
= Water
१४) बीजम् > बीज (नपुं)--
= बी
= बीज
= Seed
१६) अङ्कुरः > अङ्कुर (पुं)--
= अंकुर
= अंकुर
= Sprout
✓ अन्वय--
यथा देश: (अस्ति) तथा (तत्रत्या) भाषा (भवति)। यथा राजा (अस्ति) तथा प्रजा (भवति)। यथा भूमि: (अस्ति) तथा (तत्रत्यं) तोयं (भवति)। यथा बीजम् (अस्ति) तथा (तस्मात्) अङ्कुर: (प्रादुर्भवति)।
✓ समश्लोकी--
जसा देश तशी भाषा,
जसा राजा तशी प्रजा |
जशी भूमी तसे नीर,
जसे बीज तसे अंकुर ||
✓ अर्थ--
१) मराठी अर्थ--
जसा देश तशी भाषा, जसा राजा तशी प्रजा, जशी जमीन तसे पाणी व जसे बी तसा अंकुर असतो.
२) संस्कृतार्थ:--
मनुष्य: यस्मिन् प्रदेशे वसति तस्य प्रदेशस्य भाषा तस्य भाषा भवति । प्रजा नृपमेव अनुकरोति । अत: यथा राजा अस्ति तथा प्रजा भवति । भूम्यनुसारं जलं भवति यत: भूमिस्था: क्षारा: जले सन्ति । बीजानुसारं अङ्कुर: अस्ति । यदि आम्रबीजमुप्तं तर्हि आम्रवृक्ष: रोहति न वट: ।
३) हिंदी अर्थ--
जैसा देश वैसी भाषा , जैसा राजा वैसी प्रजा , जैसी भूमि (जमीन ) वैसा पानी और जैसा बीज वैसे अङ्कुर (प्रस्फुटित ) होता है ।
४) English Meaning--
Just as the territory is , so also is the language spoken in it, just as the king is , so also are his subjects. Just as the land is, so also is the water found in it,Just as the seed is, so also is the sprout.